(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.135. अध्यायः 135
Mahabharata - Udyoga Parva - Chapter Topics
कुन्त्या विदुलोपाख्यानकथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

पुत्र उवाच। 5-135-0x(3784)(36428)
कृष्णायसस्येव च ते संहत्य हृदयं कृतम्।
मम मातस्त्वकरुणे वीरप्रज्ञे ह्यमर्षणे ॥ 5-135-1(36429)
अहो क्षत्रसमाचारो यत्र मामितरं यथा।
नियोजयसि युद्धाय परमातेव मां तथा ॥ 5-135-2(36430)
ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम् ।
किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया ॥ 5-135-3(36431)
किमाभरणकृत्येन किं भोगैर्जीवितेन वा।
मयि वा सङ्गरहते प्रियपुत्रे विशेषतः ॥ 5-135-4(36432)
मातोवाच। 5-135-5x(3785)
सर्वावस्था हि विदुषां तात धर्मार्थकारणात् ।
तावेवाभिसमीक्ष्याहं सञ्जय त्वामचूजुदम् ॥ 5-135-5(36433)
स समीक्ष्य क्रमोपेतो मुख्यः कालोऽयमागतः।
अस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसे ॥ 5-135-6(36434)
असंभावितरूपस्त्वमानृशंस्यं करिष्यसि ।
तं त्वामयशसा स्पृष्टं न ब्रूयां यदि सञ्जय ॥ 5-135-7(36435)
खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम् ।
सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम् ॥ 5-135-8(36436)
अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः ।
तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः ॥ 5-135-9(36437)
धर्मार्थगुणयुक्तेन नेतरेण कथञ्चन।
दैवमानुषयुक्तेन सद्भिराचरितेन च॥ 5-135-10(36438)
यो ह्येवमविनीतेन रमते पुत्रनप्तृणा।
अनुत्थानवता चापि दुर्विनीतेन दुर्धिया ॥ 5-135-11(36439)
रमते यस्तु पुत्रेण मोघं तस्य प्रजाफलम्।
अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च ॥ 5-135-12(36440)
सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः ।
युद्धाय क्षत्रियः सृष्टः सञ्जयेह जयाय च ।
`क्रूराय कर्मणे नित्यं प्रजानां परिपालने ॥' 5-135-13(36441)
जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् ।
न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम्।
यदमित्रान्वशे कृत्वा क्षत्रियः सुखमेधते ॥ 5-135-14(36442)
मन्युना दह्यमानेह पुरुषेण मनस्विना ।
निकृतेनेह बहुशः शत्रून्प्रति जिगीषया ॥ 5-135-15(36443)
आत्मानं वा परित्यज्य शत्रुं वा विनिपात्य च।
प्राप्यते नेह शान्तिर्हि नित्यमेव तु सञ्जय ।
अतोन्येन प्रकारेण शान्तिरस्य कुतो भवेत् ॥ 5-135-16(36444)
इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति।
यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम् ॥ 5-135-17(36445)
प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम् ।
ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम् ॥ 5-135-18(36446)
पुत्र उवाच। 5-135-19x(3786)
नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः ।
कारुण्यमेव पश्य त्वं भूत्वेह जडमूकवत् ॥ 5-135-19(36447)
मातोवाच। 5-135-20x(3787)
अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि।
चोद्यं मां चोदयस्येतद्भृशं वै चोदयामि ते ॥ 5-135-20(36448)
अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान्।
अहं पश्यामि विजयं कृच्छ्रभाविनमेव ते ॥ 5-135-21(36449)
पुत्र उवाच। 5-135-22x(3788)
अकोशस्यासहायस्य कुतः सिद्धिर्जयो मम।
इत्यवस्थां विदित्वैतामात्मनात्मनि दारुणाम् ॥ 5-135-22(36450)
राज्याद्भावो निवृत्तो मे त्रिदिवादिव दृष्कृतः ।
ईदृशं भवती कंचिदुपायमनुपश्यति॥ 5-135-23(36451)
तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते।
करिष्यामि हि तत्सर्वं यथावदनुशासनम् ॥ 5-135-24(36452)
मातोवाच। 5-135-25x(3789)
पुत्र नात्मावमन्तव्यः पूर्वाभिरसमृद्धिभिः ।
अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे।
अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः ॥ 5-135-25(36453)
सर्वेषां कर्मणां तात फले नित्यमनित्यता।
अनित्यमिति जानन्तो न भवन्ति भवन्ति च ॥ 5-135-26(36454)
अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते।
ऐकगुण्यमनीहायामभावः कर्मणां फलम् ॥ 5-135-27(36455)
अथ द्वैगुण्यमीहायां फलं भवति वा नवा ।
यस्य प्रागेव विदिता सर्वार्थानामनित्यता ॥ 5-135-28(36456)
नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज ।
उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु ॥ 5-135-29(36457)
भविष्यतीत्येव मनः कृत्वा सततमव्यथैः ।
मङ्गलानि पुरस्कृत्य ब्राह्मणांश्चेश्वरैः सह ॥ 5-135-30(36458)
प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक ।
अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः ॥ 5-135-31(36459)
निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च।
अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम् ॥ 5-135-32(36460)
पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि।
क्रुद्धान्लुब्धान्परिक्षीणानवलिप्तान्विमानितान् ॥ 5-135-33(36461)
स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय।
एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान्।
महावेग इवोद्धूतो मातरिश्वा बलाहकान् ॥ 5-135-34(36462)
तेषामग्रप्रदायी स्याः कल्पोत्थायी प्रियंवदः ।
ते त्वां प्रियं करिष्यन्ति पुरोधास्यन्ति च ध्रुवम् ॥ 5-135-35(36463)
यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम्।
तदैवास्मादुद्विजेत सर्पाद्वेश्मगतादिव ॥ 5-135-36(36464)
तं विदित्वा पराक्रान्तं वशे न कुरुते यदि।
निर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति ॥ 5-135-37(36465)
निर्वादादास्पदं लब्धा धनवृद्धिर्भविष्यति।
धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च ॥ 5-135-38(36466)
स्खलितार्थं पुनस्तानि सन्त्यजन्ति च बान्धवाः ।
नह्यस्मिन्नाश्रयन्ते च जुगुप्सन्ते च तादृशम् ॥ 5-135-39(36467)
शत्रुं कृत्वा यः सहायं विश्वासमुपगच्छति।
स न संभाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति ॥ ॥ 5-135-40(36468)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-135-1 कृष्णायसस्य लोहस्य । संहत्य णिण्डीकृत्य ॥ 5-135-3 एकजं अभ्रातृकम् ॥ 5-135-5 सर्वावस्था गार्हस्थ्यादिरूपा। तावेव धर्मार्थावेव। अचूचुदं प्रेरितवत्यस्मि ॥ 5-135-6 समीक्ष्य क्रमोपेतः द्रष्टुं योग्येन पराक्रमेण युक्तः । अस्मिन्काले चेत् कार्यं कर्तव्यं युद्धं न प्रतिपद्यसे ॥ 5-135-7 आनृशंस्यं शत्रुषु स्वदेहे वा दयांकरिष्यसि तर्हि त्वं असंभावितरूपस्तिरस्कृतरूपो भविष्यसीति संबन्धः ॥ 5-135-8 स्वरीति। उभयलोकानुपयुक्तेपि पुत्रे वृथा वात्सल्यं खरी करोति तद्वदहमपि स्यामित्यर्थः ॥ 5-135-10 धर्मार्थेति। त्वया भाव्यमिति शेषः ॥ 5-135-15 प्रस्थातव्यमेवेति शेषः ॥ 5-135-17 स्वल्पमैश्वर्यं अप्रियमनिष्टं इच्छति मन्यते प्राज्ञः। यस्य तु अल्पमेवैश्वर्यं प्रियं तस्य ध्रुवं निश्चितं तदेवाल्पं प्रियत्वेन गृहीतं अप्रियमनर्थकरं स्यात्। तेन राज्ञाऽल्पसंतुष्टेन न भवितव्यमित्यर्थः ॥ 5-135-18 अभावं नाशम् ॥ 5-135-19 पश्य हितत्वेनेति शेषःक ॥ 5-135-20 अतो वचनात् मे मम भूयसी नन्दिः समृद्धिः भवितेति शेषः। यत् एवं कारुण्यं देहे कृपां अनुपश्यसि हितत्वेन । एवंसत्यपि त्वमेव चोद्यं पूर्वपक्षं चोदयसि प्रेरयसि कारुण्यं कुर्विति। अथापि वज्रहृदयाहं ते तुभ्यं चोदयामि ॥ 5-135-21 सैन्धवान् हत्वा कृच्छ्रेण भाविनं ते तव विजयं यदा पश्यामि द्रक्ष्यामि अथ त्वां पूजयिष्यामीति योजना ॥ 5-135-22 एतां अवस्थां दारुणामात्मनि आत्मना स्वयं विदित्वा । मे मम भावश्चित्तं राज्यान्निवृत्त इत्युत्तरेण संबन्धः ॥ 5-135-29 वृद्धिः पीडा। वृधु हिंसायामित्यस्य रूपम्। समृद्धिरैश्वर्यम्। आत्मनः पीडां परस्यैर्श्वं च नुदेदित्यर्थः ॥ 5-135-35 तेषां क्रुद्धादीनां अग्रप्रदायी। भक्तं वेतनं च सर्वेभ्यः प्रथमं देयम्। न चेत्सद्यः कुपितास्ते त्यजेयुरित्यर्थः ॥ 5-135-36 एनं निर्वादैः परिनिष्ठितैर्दूतैर्निर्वदेत् परिनिष्ठां प्रापयेत्। साम्ना दानेन वा तं पर्यवस्थापयेदित्यर्थः । अन्ततः फलतः तत् शर्त्रार्वशीकरणं भविष्यति ॥ 5-135-37 तत्रोपायमाह निर्वादादिति। एवं परिनिष्ठिततया आस्पदं स्थानं प्राप्तं चेत् शत्रुणाऽनुपद्रुतस्य धनवृद्ध्यादिकं सर्वं सेत्स्यतीत्यर्थः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.